|
श्री-तुकाराम-महाराज:
(वसन्ततिलक-वृत्तम्)
आश्रित्य येन
सुकरं खलु भक्तिमार्गं
वेदान्त्-वेद्-निहितं विवृतं रहस्यम् ।
इन्द्रायणी न
विदधौ यदभङ्गं-भङ्गं
सोऽयं ’तुका’ जयति भागवतो महात्मा ॥
( गीतम् )
यो विरचितवान्
अभङ्गवाणीं बहुजनहितकाम:
वन्द्यते सैष तुकाराम: ॥ धृ ॥
अभङ्गरूपो रम्यो रुचिर:
यत्सारस्वत-महासागर:
सर्वेषामुपकारको जनानाम् आगमनिगमै: सम: ॥१॥
श्री-ज्ञानेश्वर-विरचित-मूल:
येन विभूषित-विशाल-चूल:
दृढतां नीतो
लोकमङ्गलो भागवतो धर्म: ॥२॥
भक्तिपताका येनोन्नमिता
विहरति गगनाङ्गणं प्रयाता
’विठ्ठल’
’विठ्ठल’ इति यन्मन्त्रो मोक्षकर: परम: ॥३॥
वेदपुराणै: सदा कीर्तित:
वेदान्तैरपि पुरा वर्णित:
विषह्य विपदो
येन विमुक्तो ज्ञानराशिरनुपम: ॥४॥
अनुवाद :
१.
( मूलम् )
कृपाळू सज्जन
तुम्ही संतजन । हेची कृपादान् तुमचे मज ॥१॥
आठवण तुम्ही
द्यावी पांडुरंगा । कींव माझी सांगा काकुळती ॥धृ॥
अनाथ अपराधी
पतित आगळा । परी पायावेगळा नका करु ॥२॥
आठवण तुम्ही
द्यावी पांडुरंगा । कींव माझी सांगा काकुळती ॥धृ॥
तुका म्हणे
तुम्ही निरविल्यावरी । मग मज हरि उपेक्षिना ॥३॥
आठवण तुम्ही
द्यावी पांडुरंगा । कींव माझी सांगा काकुळती ॥धृ॥
(वसन्ततिलक-वृत्तम्)
कारुण्यसान्द्र्हृदया: सुजना भवन्तो वर्षन्तु मय्यविरलं हि
कृपाप्रसादम्॥१॥
संस्मर्यतां
परमदैवत - पाण्डुरङ्गो मत्प्रार्थना सविनया च निवेदनीया॥धृ॥
यद्यप्यनाथपतितोऽस्मि कृतापराध: कार्य: कदापी न पृथक्
चरणारविन्दात्॥२॥
संस्मर्यतां
परमदैवत - पाण्डुरङ्गो मत्प्रार्थना सविनया च निवेदनीया॥धृ॥
ब्रुते तुका यदि
भवद्विरहं प्रदत्तो नूनं हरिर्न च कदाचिदुपेक्षते माम्॥३॥
संस्मर्यतां
परमदैवत - पाण्डुरङ्गो मत्प्रार्थना सविनया च निवेदनीया॥धृ॥
( सतालानुवाद:
)
सदा कृपावन्तो
भवन्तो हि सन्त: इदं कृपादानं भवदीयं मे ॥१॥
स्मर्यतां
भवद्वि: सदा पाण्डुरङ्ग मम प्रार्थना तस्मै वाच्या विनिता॥धृ॥
अनाथोऽपराधी
पतितो विचित्र: तदपि नैव चरणाद् दूरीकार्य:॥२॥
स्म्र्यतां
भवद्वि: सदा पाण्डुरङ्ग मम प्रार्थना तस्मै वाच्या विनिता॥धृ॥
तुका वदति मां
चेद् भवन्तोऽर्पयन्ति हरिर्मा कदाचिन्नोपेक्षेत॥३॥
स्म्र्यतां
भवद्वि: सदा पाण्डुरङ्ग मम प्रार्थना तस्मै वाच्या विनिता॥धृ॥
२.
मूलम् :
सुन्दर ते
ध्यान उभे विटेवरी । कर कटावरी ठेवूनिया ॥१॥
तुळसीहार गळा
कासे पीतांबर । आवडे निरंतर तेचि रुप् ॥धृ॥
मकरकुंडले तळपती
श्रवणीं । कंठी कौस्तुभमणि विराजित॥२॥
तुळसीहार गळा
कासे पीतांबर । आवडे निरंतर तेचि रुप् ॥धृ॥
तुका म्हणे माझे
हेचि सर्वसुख् । पाहीन् श्रिमुख् आवडीने॥३॥
तुळसीहार गळा
कासे पीतांबर । आवडे निरंतर तेचि रुप् ॥धृ॥
अनुवाद :
यदिष्टकायां
विलसति प्रवरं कटिदेशे यन्निहितकरं तद्रूपं सुन्दरम् ॥१॥
कण्ठे यद्
धृत-तुलसी-हारं परिहित-पीताम्बरं च रुचिरं रुचितं निरन्तरम्
॥धृ॥
मकर्-कुण्डलोल्लासितकर्णं कौस्तुभमणिसमलंकृतकण्ठं तद्रूपं
सुन्दरम् ॥२॥
कण्ठे यद्
धृत-तुलसी-हारं परिहित-पीताम्बरं च रुचिरं रुचितं निरन्तरम्
॥धृ॥
’तुका’ भणति
सुखमेतदपारं पथ्येयं श्रीमुखं सादरं तद्रूपं सुन्दरम्॥३॥
कण्ठे यद्
धृत-तुलसी-हारं परिहित-पीताम्बरं च रुचिरं रुचितं निरन्तरम्
॥धृ॥
श्लोकबध्दोऽनुवाद :
अहो तत्सुन्दरं
रुपमिष्टकां यदधिष्ठितम् । कटिप्रदेषे यस्यास्ते करयुग्मं
निवेशितम् ॥१॥
कण्ठस्थतुलसीहारस्तथैव पीतामम्बरम् । तदेव रुचिरं रुपं रोचते
मे निरन्तरम् ॥धृ॥
मकर-कुण्डले
दिप्रे रम्ये श्रवणगोचरे । कण्ठे मणि: कौस्तुभाख्य: प्रकर्षेण
विराजते ।२॥
कण्ठस्थतुलसीहारस्तथैव पीतामम्बरम् । तदेव रुचिरं रुपं रोचते
मे निरन्तरम् ॥धृ॥
’तुका’ भणति
सरवं मे सुखमेतध्दि वर्तते ।
तय्प्रत्यक्षीकरिष्यामि श्रीमुखं भक्तिभावत:॥३॥
कण्ठस्थतुलसीहारस्तथैव पीतामम्बरम् । तदेव रुचिरं रुपं रोचते
मे निरन्तरम् ॥धृ॥
डॉ. दे. ख.
खरवंडीकर
गीतायनम् ,
नरहरिनगर,
गुलमोहर रस्ता
, अहमदनगर - ४१४००३
भ्रमरध्वनि -
९८९०८४५४५८
|